पञ्चपादिकाप्रस्थानम्
स्वामि सच्चिदानन्देन्द्र सरस्वति, श्री
संस्करण 1 | pp 1 - 208 | 1966
प्रस्तावना (आंग्लभाषामयी)
प्रस्तावना (गीर्वाणभाषामयी)
१. ग्रन्थारम्भे हेतुः - २. विचारस्यागतार्थता - ३. पञ्चपादिकाया एव प्रथमं परीक्षणे हेतुः - ४. पञ्चपादिकासंस्तवः - ५. सूत्रभाष्यवाक्यानामेव प्रथममुदाहरणे हेतुः ।।
६. भाष्यगतम् अध्यासस्वरूपप्रदर्शनपरं वाक्यम् - ७. भाष्ये विवक्षितो विरोधः कीद्दशः ? (टी.) न सहानवस्थानलक्षणः, किं तर्हि जातिव्यक्त्योरिव इतरेतरसम्भेदात्मकत्वानुपपत्तिः ; (भा.) सहानवस्थानलक्षणमेव विरुद्धस्वभावत्वम् । ८. चिदचितोर्विरुद्धस्वभावत्वं कथम् ?
९. किं नामस्मत्प्रत्ययगोचरत्वं विषयिणः ? १०. अस्मत्प्रत्ययगोचरत्वमात्मनः किमभ्युपगतं भाष्ये, किं वा नाभ्युपगतम् ? ११. (टी.) अहङ्कारे व्यवहारयोग्यत्वमेव अस्मत्प्रत्यय-विषयत्वम् ; योग्यत्वस्य, अध्यासस्य च बीजाङ्कुरयोरिव कार्यकारणभावः । (भा.) अहंप्रत्ययविषयत्वमेव अस्मत्प्रत्ययगोचरत्वं नाभ । १२. अस्मत्प्रत्ययविषयत्वाङ्गीकारः कथं कृत्वा ? - अहं प्रत्ययनिराकरणे हेतुः । १३. आत्मनोऽहंप्रत्ययविषयता स्वीकृता किंप्रयोजना ?
१४. `अध्यासो मिथ्या' इत्यस्यार्थः १५. `नैसर्गिको व्यवहारः' इति कोऽर्थः ? (टी.) प्रत्यक्चैतन्यसत्तामात्रानुबन्धी मनुष्योऽहमित्यभिमानः ; (भा.) निसर्गत एव अध्यस्य अहंममेति व्यवहरति लोकोऽविचारदशायाम् इत्यर्थः ।।
१६. `मिथ्याज्ञाननिमित्तो लोकव्यवहारः' इत्यस्य टीका (टी.) अनिर्वचनीयाविद्याशक्त्युपादानकः । १७. मिथ्याज्ञानशब्दो भाष्ये अध्यासार्थक एव । तत्र भाष्यवाक्यानि (30) - मिथ्याशब्दो न कुत्रापि भाष्ये अनिर्वचनीयपर्यायत्वेन प्रयुक्तः । तत्र भाष्यवाक्यानि (5) ।।
१९. `अहमिदम्', `ममेदम्' इति नैसर्गिकोऽयं व्यवहारः - इत्यस्यार्थः । २०. व्यवहारवैविध्यम् ; तत्र भाष्यवाक्यानि (19) । २१. गीताभाष्येऽपि मिथ्याज्ञानशब्दोऽध्यासपर्याय एव ।।
२२. मिथ्यार्थावभासः २३. अख्यातिवादादीनां विमर्शः । २४. अध्यासोत्पत्तिचिन्ता । २५. अविद्यायां प्रमाणोपन्यासः किं समञ्चसः ? २६. भाष्यानुसारेण प्रातिभासिक-रजतादिविचारः ; तत्र वाक्यानि (13) ।।
२७. सुषुप्तावविद्याशक्तिसद्भावः किं भाष्यसम्मतः ? तत्र भाष्यवाक्यानि (19) । २८. सौषुप्ताविद्याविषये विवरणकारयुक्तयः ।।
२९. अविद्यास्वरूपम्; ३०. अव्याकृतम् नामरूपादिशब्दवाच्यम् अविद्याविलक्षणमिति भाष्यमतम् । तत्र वाक्यानि (12) । ३१. इष्टसिद्ध्यादिषु मायासतत्त्वविचारः ।।
३२. अविद्याश्रयः, अविद्याविषयश्च भाष्यकारमते अध्यास एवाविद्या जीवाश्रयश्च सः; तत्र वाक्यानि (7) । व्याख्यानप्रस्थानेषु विविधानि मतानि ।।
३३. अविद्यापुरःसरत्वं व्यवहाराणाम् ३४. अस्मत्प्रत्ययगोचरात्मनामानि तत्र टीकाकारेण परमात्मनामान्यपि जीवनामत्वेन परिगणितानि ।।
३५. अहमध्यासः तत्र भाष्यवाक्यानि (5) । ३६. अहमध्यासे दृष्टान्ताः ।।
३७. अविषये प्रत्यगात्मन्यध्यासः तत आत्मपरोक्षत्वविषये मतभेदः ।।
३८. विद्याऽविद्याविवेकः (टी.) अविद्याया आच्छादकत्वम्, अतद्रूपावभासिता च ; (भा.) विपरीत-ग्राहकादिरूपैवाविद्या । (टी.) अध्यस्तातद्रूपविलयनं कुर्वद् वस्तुस्वरूपम् अवधारयद् विज्ञानं विद्या ; (भा.) विवेकेन वस्तुस्वरूपावधारणं विद्या । भाष्ये अद्यस्तवर्णने `अविद्याध्यस्तम्' इत्यादिविशेषणानि नियमेनोपादीयन्ते, न तु क्वचिदपि `अविद्योपादानकम्' - इति । तत्र वाक्यानि (11) ।।
३९. अहंप्रत्ययिसाक्षिणोरन्योन्याध्यासः (टी.) अहंप्रत्ययी नाम अहङ्कारग्रन्थिः ; (भा.) अहंप्रत्ययी नाम अहंप्रत्ययविषयत्वेन अविद्याकल्पित आत्मा ; (टी.) इतरेतराध्यासवचनम् आत्मानात्मनोरुभयोरपि प्रकाशे उपपत्तिसमर्पणार्थम् ; (भा.) अध्यास-कर्तुरेव परमार्थरूपं साक्षी ।।
४०. किं नाम नैसर्गिकत्वं व्यवहारस्य ? (टी.) प्रत्यक्चैतन्यसत्तामत्रानुबन्धित्वम् ; (भा.) नैसर्गिकत्वं व्यवहारस्य ? (टी.) प्रत्यक्चैतन्यसत्तामत्रानुबन्धित्वम् ; (भा.) नैसर्गिकत्वं नाम स्वभाविकत्वम्, अविचारदशायां लब्धात्मत्वम् ।।
४१. साक्षिणोऽहम्यध्यस्तत्वेऽपि न मिथ्यात्वप्रसङ्गः (टी.) सत्यम् अनिदंचैतन्यम्, अनृतं युष्मदर्थः स्वरूपतोऽपि अध्यस्तरूपत्वात् ; (भा.) मिथ्याहमर्थः सत्यात्मवस्तुत्वेन अवगत इत्येतावता न साक्षिणि कश्चिद्दोषासङ्गः ।।
४२. अध्यासस्य अनादित्वमानन्त्यं च (टी.) उपक्रमेऽपि प्रत्यगात्मन्यहङ्काराध्यास एव नैसर्गिको लोकव्यवहारोऽभिप्रेतः ; (भा.) नैसर्गिकत्वं मिथ्यात्वे हेतुः । दिक्कालादीनामपि कार्यत्वम् ।।
४३. किं. नामाध्यासस्य मिथ्याप्रत्ययरूपत्वम् ? (टी.) अनिर्वचनीयरूपत्वं लक्षणतः, न व्यवहारतः । (भा.) अनाद्यध्यासोऽपि विद्यापबाध्यत्वात् मिथ्याप्रत्यय एव
४४. अध्यासः कर्तृत्वभोक्तृत्वप्रवर्तकः (टी.) अनर्थहेतुत्वं दर्शयति हेयतासिद्धये; तेन कर्तृत्वं भोक्तृत्वं च स्वाभाविकमिति मतं निराकृतं भवति । (भा.) प्रवृत्तिलक्षणो व्यवहारो दर्शितोऽत्र ।।
४५. `सर्वलोकप्रत्यक्षः' इति कोऽर्थः ? (टी.) पूर्वोक्तस्यव अहंममानुभवलक्षणस्य निगमनमत्र । (भा.) कर्तृत्वभोक्तृत्व-बुद्धिरेव संसारानर्थहेतुरिति कृत्वा एवं सैवोपसंहारे सर्वलोकप्रत्यक्षत्वेन निगम्यते ।।
४६. `अस्यानर्थहेतोः' इत्यस्यार्थः (टी.) हेतोः प्रहाणाय इति प्रयोजनं निर्दिशति । हेतोः प्रहाण्या हि हेतुमतः प्रहाणिरिति ; (भा.) अध्यास एव हेतुः, न तु हेत्वन्तरं यथा टीकाकारोपात्तम् - इति द्योत्यतेऽत्र । (टी.) विवेकमात्रेण कथम् अध्यास-निवृत्तिरिति चेत् वाक्याद् ज्ञानान्तरमेवोत्पद्यते अविद्यां निरस्यदेवेत्यदोषः । किमिति भाष्यकारो कारणभूतामविद्यां कण्ठरवेण नोक्तवानिति तु वक्तव्यमत्र ।।
४७. अनर्थहेतोः प्रहाणाय इति प्रयोजनवचनं न वा ? (टी.) ब्रह्मात्मावगतिनान्तरीयकमनर्थहेतोरविद्यायाः प्रहाणम् । नञादेरश्रवणेऽपि विज्ञानस्वभाव एव ताद्दशो येनाविद्या निराक्रियते ज्ञानोत्पत्तिसमसमये । दृष्टान्ते `शुक्तिकेयम्' इत्येव निराकाङ्क्षं वाक्यम् ; `नेदं रजतम्' इत्यनुवादः । (भा.) प्रतिबन्धनिरासमूलकमेव ब्रह्मज्ञानमवाप्यते । तत्र वाक्यानि (16) ।।
४८. विद्याप्रतिपत्तिविषये शङ्कासमाधाने (टी.) न हि विद्या तटस्था येन तत्प्राप्तिः पृथगुच्येत इति शङ्का । परिहारस्तु उदितापि विद्या अप्रतिष्टिता, अनवाप्तेव । तत्प्रतिष्ठायै तर्कं सहायीकरोति । (भा.) तत्र प्रत्यक्षफलत्वात् विद्यायाः, शङ्कानुपपतीः । तत्र वाक्यानि (5) ।।
४९. साक्षात्कारवादो न भाष्यसम्मतः (टी.) अवगतिरिति साक्षादनुभव उच्यते ; ज्ञानं तु परोक्षे अनुभवानारूढेऽपि संभवति ; विर्धि विनैव स्वयं साक्षात्करणाय ज्ञानाभ्यासे प्रवर्तते । (भा.) अन्त्यं प्रमाणं तत्त्वमसीति आत्मैकत्वप्रतिपादकम् ; नातःपरं किञ्चिदाकाङ्क्ष्यमस्ति ।।
५०. विद्यया अविद्यानिवृत्तिः किं निःशेषा, किं वा सावशेषा ? (टी.) न जीवस्य ब्रह्मात्मावगमस्तद्विषयानवगमम् अबाधमान उदेति । संस्कारादपि तु अग्रहणानुवृत्तेः संभवः ; भयानुवृत्तिवत् । स्वसंस्कारादनुवृत्तम् अग्रहणम् अहङ्कारग्रन्थेर्निमित्तं भवतीति न किञ्चिदनुपपन्नम् । (भा.) जीवस्य क्रियाकारकफलसंबन्धो मिथ्याज्ञानकल्पितः । मिथ्याज्ञानं बाधितमपि संस्कारवशात् द्विचन्द्रज्ञानवत् अनुवर्तते । ज्ञानिदृष्ट्या तु क्रियाकारकफलसंबन्धो न कदाप्यस्ति । तत्र वाक्यानि (7) ।।
५१. सर्वे वेदान्ता विद्याप्रतिपत्तये आरभ्यन्त इति कथम् ? (टी.) क्रममुक्त्याद्यर्थाय विहितान्युपासनानि, अब्रह्मोपासनानि च . तस्मात् तदर्थोपजीवित्वादितरस्य ``आत्मैकत्वविद्याप्रतिपत्तये' इति न विरुध्यते । (भा.) पार्थगर्थ्यमेव उपासनावाक्यानां ब्रह्मवाक्यानां च ; `सर्वे वेदान्ताः' इति तु ब्रह्मवस्तूपदेशकवाक्यमात्राभिप्रायकम्, अथवा उपासनावाक्यानां चित्तैकाग्र्यद्वारा मुमुक्षून् प्रति आत्मैकत्वप्रतिपत्तिपरत्वमपीति `सर्वे वेदान्ताः' इत्युच्यते ।
५२. जिज्ञासाद्यधिकरणस्थाष्टीकाभिप्रायाः केचन (टी.) कार्यनिष्ठ एव वेदभागः पूर्वं विचारितः, न वस्तुनिष्ठः । (टीकामतेऽपि ज्ञानस्य भावरूपाज्ञानबाधकत्वं नास्तीति कथं न कार्यनिष्ठत्वं वार्येत ?) ५३. `भोक्तुरात्मैव ब्रह्म' इति भाष्यवाक्यस्य टीका अहं प्रत्ययविषयविप्रतिपत्त्यापि प्रणाड्या ब्रह्मविप्रतिपत्तिरेव निर्दिश्यते । [पूर्वम् अस्मत्प्रत्ययविषयत्वविषये (खं. १०, ११) यदुक्तम् तदनेन तुलनीयम्] ।। ५४. तर्कसतत्त्वम् तर्कः इति कर्तव्यता, अनुमानं वा । इदं पूर्वोक्तेन (पा. ९३) तुलनीयम् ।। ५५. अन्मादिसूत्रे किं युक्तिरपि सूत्रिता ? (टी.) सूत्रितैव ; (भा.) नानुमानाद्युपन्यासार्थं सूत्रम्, केवलं श्रुतिवाक्य-प्रदर्शनार्थम् ।। ५६. ब्रह्मणः शास्त्रं प्रति कारणत्वं कथम् ? (टी.) अनादेरपि वेदस्य ब्रह्मपरतन्त्रत्वादेव ब्रह्मकार्यत्वम्, सर्पस्येव रज्जुपरतन्त्रस्य रज्जुकार्यता । ब्रह्मणो ज्ञानशक्तिविवर्तत्वादेव च वेदस्य सर्वज्ञता च ।। (अत्र मिथ्याप्रतिभासार्थम् अविद्याशक्तिरपेक्षिता वा न वा ?)
५७. समन्वयसूत्रभाष्योदाहृतानि वाक्यानि (टी.) अत्र जीवस्य ब्रह्मात्मावगतिपर्यन्तानि वेदान्तवाक्यानि उदाहृतानि ; न जन्मादिसूत्रभाष्ये इव तटस्थब्रह्मवाक्यान्येव । (भा.) उभयत्रापि ब्रह्मात्मन्येव समन्वयः ।। ५८. परिनिष्ठितवस्तुस्वरूपे ब्रह्मणि श्रुतिप्रमाणकत्वम् (टी.) शब्दस्तावददुष्टः । अतो यथैव विधिवाक्यानां स्वार्थमात्रे प्रामाण्यम्, एवं स्वरूपवाक्यानामपि । अनवगतार्थपरिच्छेदसामान्यात् ; `तत्त्वमसि' इति सिद्धवदुपदेशात् । अपरोक्षत्वाञ्च ब्रह्मात्मनः ; अनुभवारूढं ज्ञानफलम् इति नात्र शङ्का समुन्मिषनि । तत्र वाक्यानि (8) ।। ५९. अविषयस्य ब्रह्मणः शास्त्रप्रमाणकत्वं कथम् ? (टी.) शास्त्रं हि `सोऽयम्' इत्यादिलौकिकवाक्यवत् ब्रह्मणि प्रमाणम् ; (भा.) अविद्याकल्पितसंसारित्वविवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पकत्वात् प्रमाणम् ।। ६०. वेदान्तवाक्यानां समन्वयः (टी.) सामान्यतः सिद्धस्य जगत्कारणस्य सर्वज्ञत्वादिस्वभावत्वे, त्वंपदार्थस्य च ब्रह्मात्मतायां समन्वयो वेदान्तवाक्यानाम् ; (भा.) सर्वत्रापि ब्रह्मात्मन्येव समन्वयः ।। ६१. किं ब्रह्मात्मज्ञानं नाम क्रिया ? (टी.) ज्ञानस्य क्रियात्वेऽपि न चोदनाजन्यत्वम्, नापि पुरुषतन्त्रत्वम् ; (भा.) ज्ञानं न ध्यानवत् मानसी क्रिया ; वैलक्षण्यात् ।। ६२. श्रवणादिर्विधीयते वा न वा ? (टी.) अर्थवादतयैव आत्मज्ञानस्तावकत्वेन तदुन्मुखौकरणाद् विधय इव लक्ष्यन्ते श्रवणादयः (भा.) ज्ञेयाभिमुखीकरणेन विधिवत् भवन्ति ; न `ज्ञानमेव कुरु' इति वदन्ति श्रवणादीनि ।।
६३. उपसंहारः
परिशिष्टम्
मुख्यशब्दसूची
Visitors |
---|